‘अत्र अस्ति लघ्वी बालकथा, याम् अहं सर्वदा बहून् बालान् वक्तुम्
इच्छामि’ इति लिखितम् आसीत् डा हरीन्द्रनाथचट्टोपाध्यायवर्येण यदा स्वस्य
प्रियतमां कथां प्रेषयितुं चन्दमामया स: प्रार्थित: आसीत् २० वर्षेभ्य:
पूर्वम् | सोदरी सरोजिनीनायडु इव एव प्रसिद्धिं गत: हरीन्द्रनाथ: अपि
रङ्गभूमिकलावित्, चित्रकार:, उत्तम: वाग्मी च आसीत् | औपचारिकशिक्षणात्
वञ्चितस्य अपि एतस्य विद्यावारिधिपदव्यर्थं कार्यं कर्तुं
केम्ब्रिज्विश्वविद्यालयेन अनुमति: दत्ता आसीत् | तेन बहूनि पुस्तकानि
लिखितानि | तेषु अन्यतमम् अस्ति ‘लैफ् अण्ड् मैसेल्फ्’ | १९७३ तमे वर्षे स:
पद्मभूषणप्रशस्त्या पुरस्कृत: जात: | अद्यतनीयानां वर्धमानानां बालानां
पुरत: श्रेष्ठस्य तस्य लेखकस्य इमां कथां प्रस्तोतुम् इच्छाम: वयम् |
नी लाकाशस्य च्छायायां दृश्यते प्रशान्त: कश्चन कृषकग्राम: |
ग्रामं परित: प्रसृता हरिद्वर्णीया भूमि: नितराम् आह्लादकरी | प्रकृतिरेषा
सौन्दर्यखनी एव | परं क्षेत्रेषु परिश्रमसाध्यं कार्यं कुर्वतां कृषकाणां
दृष्ट्या एतत् सौन्दर्यं तदा एव अर्थपूर्णं भवेत्, यदा क्षेत्राणि
फलसमृद्धानि भवेयु: | प्रियबाला: ! कदापि न भाव्यतां यत् फलसमृद्धे: हेतु:
वृष्टिमात्रम् इति | कृषकाणाम् अनवरत-परिश्रमद्योतका: स्वेदबिन्दव: कदापि न
विस्मर्तव्या: | समृद्धस्य फलोदयस्य निमित्तं पुरस्कारार्हा: सन्ति एते
कृषका: |
आस्तां तावत् एष: विषय: | अहं काञ्चित् कथां वक्तुम् उत्सुक: अस्मि |
अहं विश्वसिमि यत् सर्व: अपि बाल: ताम् आनन्देन स्मरेत् सर्वदा इति |
एकस्मिन् सायङ्काले कृषकाणां श्रमपूर्णं दिनम् इव स्वस्य परिश्रमपूर्णं
दिनं समाप्य सूर्य: अस्तं गच्छन् आसीत् | सूर्य: अपि कृषक: इत्येव
निर्देष्टुं शक्य: | यत: सुविशाले आकाशे स: विरलतरं तारारूपिणं फलोदयम्
आनयति स्वस्य एकस्य एव परिश्रमेण ! आं, स: सूर्य: अस्तं गच्छन् आसीत् |
सर्वेऽपि कृषकपुरुषा: महिला: च सम्भूय कृतस्य कार्यस्य फलरूपेण प्राप्तानि
धान्यानि सङ्गृह्य गृहं प्रति गमनाय उद्युक्ता: आसन् | तै: सह बहव: बाला:
अपि आसन्, ये च मातु: हस्तं गृहीत्वा आनन्देन गायन्त: गच्छन्ति स्म|
परं तेषु कश्चन लघु: बाल: कस्यचन पतङ्गस्य ग्रहणे एव पूर्णतया निरत:
आसीत् | दीर्घपक्षयुता: ते पतङ्गा: विविधवर्णोपेता: आसन् |
श्वेतकृष्णवर्णयुता: केचन, श्वेतकेसर-वर्णीया: केचन, अन्ये च केचन आसन्
श्वेत-रक्तवर्णयुता: | अहो, कीदृशी अप्ाूर्वा दैव-सृष्टि: एषा !! पुष्पम्
अपि पतङ्ग: इव | परं न डयते तत् |
कृषका: स्वकुटीरदिशि प्रस्थितवन्त: | क्षेत्रत: पञ्चषक्रोशमिते दूरे
आसन् तेषां कुटीरा: | पद्भां सुदूरगमनं कृषकाणां दिन-चर्याया: अङ्गम् एव
आसीत् | तेषां पादाघातेन विना मार्गा: अपि विचलितचित्ता: भवन्ति इव |
पतङ्गग्रहणे दत्तमनस्क: स: लघु: बाल: आदौ किमपि न लक्षितवान् एव |
बहु-कालानन्तरं स: अवगतवान् यत् अहम् एकाकी बहु दूरम् आगत: अस्मि, मम माता
अन्येन मार्गेण निर्गत्य एतावता गृहं प्राप्तवती स्यात् इति |
सपदि एव स: आतङ्केन - ‘‘अम्ब ! अम्ब !’’ इति आक्रन्दनम् आरब्धवान् |
तावता सूर्य: पूर्णतया अस्तङ्गत: आसीत् | सर्वत्र अन्धकारप्रसार: आरब्ध:
आसीत् |
‘अम्ब ! अम्ब !’ इति शब्देन मार्ग: प्रतिध्वनित: | परन्तु स:
अस्ति निर्जन: नि:शब्द: च प्रदेश: | इदानीं तत्र श्रूयते स्म बालस्य
रोदनस्वर: एक: एव | सौभाग्यवशात् तेन मार्गेण आगच्छन् कश्चन कृष्णवर्णीय:
कृषक: बालस्य रोदनम् अशृणोत् | स: बालम् उपसर्प्य वात्सल्याति-शयेन
अपृच्छत् - ‘‘वत्स ! किमर्थं रोदिति भवान् ?’’ इति | ‘‘अम्बा आवश्यकी’’ -
इति रुदन् एव अवदत् बाल: | ‘‘भवत: माता कीदृशी अस्ति ?’’ - कृषक: अपृच्छत् |
‘‘सा अस्ति सुन्दरी’’ - बाल: अवदत् | ‘‘वत्स ! अलं चिन्तया| माता भवता
प्राप्स्यते एव’’ इति अवदत् स: कृष्णवर्णीय: कृषक: | तावता काचित् सुन्दरी
महिला तत्र दृष्टा |
‘‘एषा किं भवत: माता ? एषा अस्ति सुन्दरी’’ इति अवदत् कृषक: | ‘‘नैव
! मम माता जगति एव अतिसुन्दरी अस्ति’’ - बाल: अवदत् | अचिरात् अन्या
काचित् महिला मार्गे दृष्टा | कृषक: अपृच्छत् - ‘‘किम् एषा भवत: माता
स्यात् ?’’ इति | बाल: उच्चै: अवदत् - ‘‘नैव | एषा मम माता नैव ! मम माता
तु जगति एव अतिसुन्दरी अस्ति’’ इति | मार्गे बह्व्य: महिला: दृष्टा: |
सर्वा: अपि अतीव सुन्दर्य: एव आसन् | परन्तु बाल: अस्वस्थचित्त: खिन्न:
उद्विग्न: च जात: | पुन: मातरं द्रष्टुं शक्यते उत न इति चिन्ता आरब्धा
आसीत् तस्य मनसि |
स्वसमीपम् आगच्छन्तीं काञ्चित् महिलां दृष्ट्वा बाल: आनन्देन
उत्प्लुत्य अधावत् | नृत्यन् इव स: उच्चै: अवदत् - ‘‘एषा एव मम अम्बा ! मम
अम्बा आगता एव | आगता एव’’ इति | स: कृष्णवर्णीय: कृषक: उच्चै: अहसत् | तत्
श्रुत्वा स्वर्गीया: आश्चर्येण अपश्यन् - भूमौ किम् एतत् प्रवर्तमानम्
अस्ति इति| बालस्य अम्बा सा महिला आसीत् अत्यन्तं साधारणरूपवती कृषकमहिला |
तस्या: नेत्रम् एकं लुप्तम् आसीत् अपि | घनातपे कार्यकरणात् तस्या: मुखं
नितरां निस्तेजस्कं कृष्णवर्णीयं च जातम् आसीत् |
‘‘भवत: माता किम् एषा एव !! हे, भगवन् ! जगत: अतिसुन्दरी महिला किम्
एषा एव ?’’ इति कृषक: उच्चै: हसन् अपृच्छत् | ‘‘आम् ! सत्यम् | एषा एव
अस्ति जगति अतिसुन्दरी महिला | एषा एव मम अम्बा’’ इति अत्यन्तम्
आत्मविश्वास-पूर्वकम् अवदत् स: बाल: | बाल्यस्य सन्तसहज: सुमधुर:
पुष्पसुगन्ध: आसीत् तस्य वचनेषु |
No comments:
Post a Comment