जटायुः वनितापुत्रस्य सूर्यसारथेः अरुणस्य पुत्रः । एषः पक्षिराजः गृध्रजातीयः । अस्य माता श्येनी| शेन्याः कनीयान् पुत्र एषः ।सम्पाती अस्य ज्येष्ठः सहोदरः । भ्रातरावेतौ अतीव बलशालिनावास्ताम् । एकदा उभावपि
सॊदरौ आत्मनोः वॆगबलं परीक्षितुमिच्छन्तौ अत्युपरि गगने डयमानावास्ताम् ।
यदा जटायुः तीव्रॆण सूर्यातपेन सन्तप्तः अभवत्, तदा सम्पातिः तस्य उपरि
स्वयं डयमानः स्वपक्षाच्छादनेन अनुजं ररक्ष । तथापि
भास्करकरज्वालाभिर्दग्धगात्रः सन् निश्शक्तः जटायुः दण्डकारण्येऽपतत् ।
सम्पातिरपि दग्धपक्षतिः सन् द्क्षिणसमुद्रतीरे पपात । तदा तत्रैव तपश्चरन्
निशाकरनामा तापसः एनमवलोक्य करुणयॊपचचार । ततः कदापि सम्पातेः जटायुषा
मॆलनं नाभवत् । जटायुरपि तत्र दण्डकारण्ये कतिपयैरहॊभिः वॆदनामुक्तशरीरः
सन् क्वचन पर्वतगुहायामुवास । एकदा वनवासिना श्रीरामेण सङ्गतः जटायुः, तेन
पृष्टः स्ववृत्तान्तं तस्मै निवेदयन्, अहं तव पितुः दशरथस्य बाल्यमित्रम्
इत्यपि प्रोवाच । तच्छुत्वा सन्तुष्टो रामः स्वस्य वनवासवार्तां
श्रावयित्वा पंचवटीपरिसररक्षणार्थं तं नियॊजयामास । ततः रावणः यदा सीतापहरणं
कृतवान् तदा जटायुः रावणेन सह युद्धं कृत्वा, रावणेन कृत्तपक्षतिः सन्
भूमावपतत् । सीतामन्विषतो रामलक्ष्मणयोराग्मनं प्रतीक्षमाणः,
रामागमनपर्यन्तमपि प्राणान् सन्धार्य ततः रामाय रावणकृतसीतापहरणॊदन्तं
विनिवॆद्य मृतवान् । रामोऽपि यथाविधि तस्यान्तिमसंस्कारं विधाय कृतकृत्यॊ
बभूव । जटायोः कर्णिकारः,शतगामी, सारसः,रज्जुबालः,भेरुण्डश्चेति पञ्च
पुत्राः ।
No comments:
Post a Comment