स र्योदयनिमित्तम् अस्ति घण्टात्मक: काल: । किन्तु एतावता एव
प्रसिद्ध: वैष्णवगुरु: रामानन्द: वाराणस्यां प्रवहन्त्यां गङ्गायां
स्नात्वा स्वस्य आश्रमं प्रतिगच्छन् अस्ति । यद्यपि मार्गे सोपानानि
स्पष्टतया न दृश्यन्ते, तथापि अभ्यासबलात् स: विशेष-प्रयासं विना एव अग्रे
गच्छन् आसीत् । ‘‘हे राम ! राम !’’ इति सकृत् उच्चै: उक्तं तेन । यत:
सोपाने सुप्तस्य कस्यचित् उपरि स्वस्य पाद: स्थापित: आसीत् तेन ।
‘‘अनुगृहीतोऽहम् । कृतदीक्षोऽहम्’’ आनन्दातिरेकात् उद्गतं युवकस्य
ध्वनिं श्रुत्वा गुरु: अविलम्बेन एव अवगतवान् यत् अयं क: इति । स:
पूर्वम् अपि रामानन्दस्य समीपम् आगत्य - ‘मां कृपया शिष्यत्वेन
स्वीकुर्वन्तु भवन्त:’ इति बहुधा प्रार्थितवान् आसीत् ।
किन्तु गुरु: शिष्यत्वेन तस्य स्वीकारं निवारितवान् आसीत् । यत: तस्य
युवकस्य वंश: क: इति केनापि न ज्ञायते स्म । स: युवक: अपि तत् न जानाति
स्म ।
कौचित् धीवरौ यवनदम्पती तं पालितवन्तौ आस्ताम् । किन्तु स:
जन्मना हिन्दु: एव इति जना: वदन्ति स्म । स: समुदायद्वये अपि उत्तमं
सम्बन्धं रक्षितवान् आसीत् । सर्वे अपि तं प्रीत्या पश्यन्ति स्म ।
एष: एव युवक: अग्रिमे काले ‘महात्मा कबीर:’ इति लोके प्रसिद्ध: जात: ।
तस्य असामान्यत्वं दृष्ट्वा गुरु: नितरां सन्तुष्ट: । सत्त्वेन अग्रे गतं
तं दृष्ट्वा गुरु: महान्तम् अभिमानं वहति स्म । कबीरस्य जनन-मरणादिविषये
अधिकं विवरणं न ज्ञायते । प्राय: स: 1440 तमे वर्षे जात: । 1598 तमे वर्षे
दिवङ्गत: स्यात् इति श्रूयते । तथापि बहव: विश्र्वसन्ति यत् स:
शताधिकानि वर्षाणि जीवितवान् स्यात् इति ।
स: आजीवनम् अन्धविश्र्वासस्य, विविध-मतेषु अन्तर्भूतानाम्
अर्थहीनानाम् आचारादीनां च निर्मूलनाय प्रयत्नम् अकरोत् ।
हिन्दु-यवन-समुदाययो: ऐकमत्यस्य प्रखरसमर्थक: आसीत् स: । यत: स: जानाति
स्म यत् सर्वेषु अपि स्थित: देव: एक: एव, स: बाह्याडम्बरात् न, अपि तु
आन्तरिकभक्त्या पावित्र्येण च प्रसन्न: भवति इति ।
कदाचित् कश्र्चन यवनपण्डित: तेन सह वादविवादार्थम् आगत: ।
कबीरस्य गृहस्य स्तम्भे बद्धं सूकरं दृष्ट्वा स: कोपेन उक्तवान् -
‘‘किम् एतत् ! एष: मलिन: जीवी गृहस्य प्रवेशद्वारे एव बद्ध: अस्ति भवता
?’’ इति ।
‘‘मित्र ! एष: मलिन: पशु: मम गृहस्य बहिर्भागे अस्ति, न तु
अन्त: । भवान् सकृत् स्वस्य अन्तर्भागं परि-शीलयतु तावत् । कतिविधा:
मलिनांशा: तत्र सन्ति इति किं भवता ज्ञायते ? कोप:, द्वेष:, असूया, लोभ:
इत्यादय: बहव: मलिनांशा: सन्ति भवत: हृदये मनसि च’’ इति अवदत् कबीर:।
कदाचित् कबीर: मघरनामके ग्रामे गच्छन् आसीत् । तत्र स: महता कष्टेन
चङ्क्रमणं कुर्वन् वाराणसीं गच्छन्तं कञ्चित् वृद्धम् अपश्यत् । कबीर:
करुणया तं पश्यन् अपृच्छत् - ‘‘एतावता कष्टेन वाराणसी किमर्थं वा
गन्तव्या भवता ?’’ इति । तत् श्रुत्वा स: वृद्ध: कथञ्चित् कष्टेन अवदत् -
‘‘वाराणस्यां यदि मरणं भवेत् तर्हि अहं साक्षात् स्वर्गम् एव
प्राप्स्यामि । मघरग्रामे यदि मम मरणं भवेत् तर्हि तु नरक: एव प्राप्येत’’
इति ।
‘‘किम् एतत् सत्यम् ? तर्हि वाराणस्यां मृत: गर्दभ: अपि किं स्वर्गं
प्राप्नुयात् ? तथा चेत् अहम् अस्मिन् मघरग्रामे एव मरिष्यामि’’ इति
अवदत् कबीर: ।
एतस्य वचनस्य अनुगुणं स: मघरग्रामे एव न्यवसत् । एवं
स: स्वस्य कृतिद्वारा एव जीवनस्य पाठान् पाठयति स्म । स्वर्गस्य नरकस्य वा
प्राप्ति: मरणस्थलं न अवलम्बते इति तस्य चिन्तनम् आसीत् ।
कबीर: मघरग्रामे एव दिवङ्गत: । तस्य शिष्येषु हिन्दव: यवना: च आसन् ।
हिन्दव: इष्टवन्त: यत् शवस्य दहनं करणीयम् इति । यवना: निखननम्
इष्टवन्त: । एतद्विषये तत्र महान् विवाद: प्रवृत्त: । अन्ते यदा
शववस्त्रम् अपसारितं तदा तत्र पुष्पमात्राणि दृष्टानि । पुष्पाणि द्विधा
विभज्य समुदायद्वयस्य जनै: स्वीकृतानि । हिन्दुभि: तेषां दहनसंस्कार: कृत: ।
यवनै: भूमौ निखाय तदुपरि स्मारकं निर्मितम् ।
No comments:
Post a Comment