Saturday 6 October 2012

परशुरामावतार:

जमदग्नि: मृत: इव भूमौ अपतत् | रेणुका-   देवी पत्यु: शरीरस्य उपरि पतित्वा रोदनम् आरब्धवती | तस्मिन् एव समये परशुराम: आश्रमात् प्रतिनिवृत्त: | प्रवृत्तं सर्वं श्रुत्वा नितरां क्रुद्ध: स: माहिष्मतीं प्रति प्रस्थित: |  अत्रान्तरे भृगुमहर्षि: जमदग्ने: आश्रमं प्रति आगतवान् | प्रवृत्तं समग्रं ज्ञा स: योग-बलात् जमदग्निम् उज्जीवितवान् | 

माहिष्मतीनगरे सैनिका: धेनुं ताडयन्त: आसन्, यत: सा तेषाम् इच्छाया: अनुगुणं वस्तूनि यच्छन्ती न आसीत् | तस्मिन् एव समये परशुराम: तत्र उपस्थित: | तस्य दर्शन-मात्रात् भीता: सैनिका: तत: पलायितवन्त: | परशुराम: प्रीत्या धेनुं स्पृशन् अवदत् यत् भवती निर्भयतया आश्रमं प्रतिगच्छतु इति | धेनु: आश्रमं प्रति अधावत् | तत: परशुराम: प्रासादस्य समीपं गत्वा उच्चस्वरेण अवदत् - ‘‘अयि ! दुष्ट ! राजा प्रजानां पालनं कुर्यात् | यदि स: कर्तव्यच्युत: भवति तर्हि तेन दण्ड: अवश्यम् अनु-भोक्तव्य: | भवान् प्रासादात् बहि: आगत्य पापस्य फलं प्राप्नोतु’’ इति |

तस्य घोरं रूपं दृष्ट्वा द्वारपालका: पलायन-सूत्रं पठितवन्त: | ये द्वित्रा: धैर्येण स्थितवन्त: ते पर शुरामस्य परशो: प्रहारं प्राप्य यमलोकं गता: | परशुराम: कालरुद्र: इव गर्जन् कार्तवीर्यार्जुनं निन्दन् अवदत् - ‘‘अये पापिन् ! क्वास्ति भवान् ? भवत: पापघट: पूर्ण: अस्ति | यस्य शासने गो-सज्जन-ऋषिमुनय: पीडिता: भवन्ति स: हन्तव्य: एव’’ इति | कार्तवीर्यार्जुन: चिन्तितवान् आसीत् यत्  परशुराम: कश्चन साधारण: मुनिकुमार: स्यात् इति |
किन्तु यदा तस्य पराक्रमादिकं ज्ञातं तदा स: सहस्रेण हस्तै: आयुधानि प्रयुक्तवान् | उभयो: अपि घोरं युद्धं प्रवृत्तम् | परशुराम: कार्तवीर्यार्जुनस्य सर्वाणि अस्त्र-शस्त्राणि खण्डितवान् | तदीयान् सहस्रं हस्तान् अपि निर्दयं छिन्नवान् | तेन कार्तवीर्यार्जुन: हतवीर्य: सन् भूमौ अपतत् | तदा तेन स्मृतं यत् अहं चक्रपुरुष: अस्मि, शापकारणत: एतत् जन्म प्राप्तम् अस्ति मया इति | तेन परशुरामस्य विष्णुस्वरूपम् अपि अवगतम् | तत: स: सुदर्शनचक्रे विलीन: जात: |
परशुराम: आश्रमं प्रत्यागत: | तत्र पिता सजीवं दृष्ट: तेन | नितरां सन्तुष्ट: स: पितरं कार्तवीर्यार्जुनस्य मरणवार्तां निवेदितवान् | एतां वार्तां श्रुत्वा जमदग्निमहर्षि: अवदत् - ‘‘भवता यत् कृतं तत् सर्वथा अनुचितम् एव | एतस्य प्रायश्चित्तरूपेण तप: आचरणीयं भवता’’ इति |  ‘‘तात ! य: स्वकर्तव्यं विस्मृत्य पापाचरणे उद्युक्त: भवति तस्य दण्डनाय सर्वोऽपि प्रवृत्त: भवितुम् अर्हति एव | अत: मया यत् कृतं तत् अनुचितं तु न | तथापि भवता आदिष्टम् इत्यत: तप: आचरिष्यामि, न तु प्रायश्चित्त-रूपेण’’ इति उक्त्वा परशुराम: तपसे अरण्यम् उद्दिश्य गतवान् |
कार्तवीर्यार्जुनस्य सहस्रं पुत्रा: हैहयवंशीयान् क्षत्रियान् मेलयित्वा जमदग्ने: आश्रमं प्रति गतवन्त: | तस्मिन् समये महर्षि: जमदग्नि: समाधिस्थ: आसीत् | सैनिका: तस्य शिर: कर्तयित्वा दूरे क्षिप्तवन्त: | रेणुकादेवी स्वस्य रक्षणाय परशुरामम् एकविंशतिवारम् आहूत-वती | पत्यु: शरीरस्य उपरि पतित्वा विलपनं कृतवती च | जमदग्ने: शिर: लुठत् गत्वा शिलयो: मध्ये अपतत् | क्षत्रिया: आश्रमं दग्धवन्त: | एतेन पत्यु: शरीरस्य उपरि पतिता रेणुकादेवी अपि दग्धा जाता | अरण्ये तपसि विलीनस्य परशुरामस्य तपस: भङ्ग: अकस्मात् जात: | तस्य कर्णे मातु: ध्वनि: एकविंशतिवारं प्रतिध्वनित: |
एष: कश्चन अशुभसङ्केत: इति चिन्तयन् परशुराम: तप: परित्यज्य आश्रमं प्रत्यागत: | तस्मिन् समये आश्रम: ज्वलति स्म | तदीयौ मातापितरौ दग्धौ जातौ आस्ताम् | हैहय-वंशीया: क्षत्रिया: सर्वान् आश्रमवासिन:, समीपस्थान् ग्रामीणान् च लुण्ठयन्त: आसन् | एतत् दृष्टवत: परशुरामस्य नेत्राभ्याम अग्निज्वाला निर्गता |
 स: शिवं ध्यायन् परशुं हस्तेन गृहीत्वा सर्वान् क्षत्रियान् कण्टकसस्यानि इव नाशितवान् | तत: स: शिलयो: मध्ये पतितं पितु: शिर: उन्नीय उरसा आलिङ्ग्य अवदत् - ‘‘मम हृदये स्थिताया: क्रोधज्वालाया: कारणत: नेत्रयो: अश्रूणि सर्वथा शुष्काणि जातानि सन्ति | अहं क्षत्रियाणां रक्तेन भवत: तर्पणं विधास्यामि, तस्यैव रक्तस्य कुण्डे भवत: शिर: मज्जयित्वा अन्त्येष्टिं करिष्यामि’’ इति |
तत: उन्नतां शिलाम् आरुह्य परशुम् उन्नीय गर्जन् स: एकविंशतिवारं प्रतिज्ञां कृतवान् - ‘‘अहम् एतेन परशुना पृथिवीस्थान् सर्वान् क्षत्रियान् नाशयिष्यामि’’ इति |
तस्य भयङ्कर: ध्वनि: दिशासु प्रतिध्वनित: जात: | तां भीषणप्रतिज्ञां श्रुत्वा ब्रह्मादिदेवा: ऋषिमहर्षयश्च तत्समीपम् आगत्य - ‘भवान् शान्तो भवतु’ इति निवेदितवन्त: |

महर्षि: भृगु: अवदत् - ‘‘भगवान् स्वयमेव दुष्टानां दण्डनं शिष्टानां रक्षणं च करिष्यति | दण्डनकार्यम् ऋषिवंशीयानां न’’ इति | तदा परशुराम: अवदत् - ‘‘भगवान् आकाशात् अवतीर्य कार्यं न करिष्यति | स: भगवान् अस्मादृशान् कार्ये प्रेरयन् कार्यं साधयिष्यति | यदा भूलोके पापकृत्यानि वर्धन्ते, तदा भगवान् मानवेषु कस्मिंश्चित् स्वशक्तिम् आवाहयति, पापिनां दण्डनं कारयिष्यति च | इदानीं भगवान् मद्द्वारा एतादृशं कार्यं कारयन् अस्ति’’ इति | तत: स: हिमालयस्य कैलासशिखरं प्रति गतवान् शिवस्य तोषणाय |
तस्य तपस्यया शिव: सन्तुष्ट: जात: | परशुराम: तम् अवदत् - ‘‘शिवस्य अनुज्ञां विना तृणम् अपि न चलति इति श्रूयते | भवान् तु लयपुरुष: | मम प्रतिज्ञा अपि ज्ञायते भवता | तां प्रतिज्ञां पूरयितुं यत् बलम् आवश्यकं तत् मह्यं ददातु कृपया’’ इति | शिव: तस्मै विविधानि अस्त्राणि शस्त्राणि च दत्त्वा एकं दिव्यास्त्रम् अपि यच्छन् अवदत् - ‘‘एतत् लोके भार्गवास्त्रनाम्ना प्रसिद्धिं गमिष्यति | भवान् विशिष्टेन केनचित् कारणेन मानवरूपेण जन्म प्राप्तवान् अवतारपुरुष: अस्ति | भवत: कार्ये कोऽपि विघ्न: न भविष्यति’’ इति | एतदनन्तरं परशुराम: गोलोके कृष्णरूपेण वसत: विष्णो: समीपं गतवान् | कृष्ण: तस्मै कवचं महाशक्तिमत् दिव्यं धनु: च दत्त्वा अवदत् यत् रामावतारसमये मया एतत् प्रति-स्वीकरिष्यते इति |
एवं देवानां द्वारा दिव्यास्त्राणि प्राप्तवान् परशुराम: क्षत्रियसंहारम् आरब्धवान् | ये राज्ञां दुष्टशासनेन प्रपीडिता: आसन् ते तस्य साहाय्यं कृतवन्त: | कार्तवीर्यार्जुनस्य पुत्रा:, सर्वे हैहयवंशीया: च नगरं परित्यज्य इतस्तत: धावितवन्त: | परशुराम: आग्नेयास्त्रेण माहिष्मतीनगरं ज्वालितवान् | एकविंशतिं दिनानि तत् नगरं ज्वलत् आसीत् | एवं हैहयराजानां राजधानी भस्मसात् जाता |
कार्तवीर्यस्य सहस्रं पुत्रा: अन्ये हैहय-वंशीया: च सम्भूय परशुरामं सम्मुखीकृत-वन्त: | किन्तु परशुराम: बलिपशून् इव सर्वान् संहृतवान् | तेषां शिरस: कर्तनात् प्राप्तेन रक्तेन पञ्च कुण्डान् निर्माय तेषु पितु: शिर: मज्जित-वान् | एवं स: पितु: तर्पणं विधाय तदीयम् अग्निसंस्कारं निर्वर्तितवान् | यत्र परशुरामेण पञ्च कुण्डानि निर्मितानि तत् स्थानं स्यमन्तपञ्चकम् इति ख्यातं जातम् | अग्रे तदेव क्षेत्रं कुरुक्षेत्रत्वेन अपि ख्यातम् अभवत् | एतस्मिन् एव स्थले महाभारत-युद्धकाले पुनरपि रक्तस्य नदी प्रावहत् |
पितु: श्राद्धं निर्वर्त्य परशुराम: पुनरपि क्षत्रियाणां संहाराय निर्गत: | प्रतिकोणम् अन्विष्य स: तान् संहृतवान् | क्षत्रियमातर: स्वशिशून् ब्राह्मणानां गृहेषु रक्षितवत्य: | स्वयं च ब्राह्मणीवेषं धृत्वा आत्मरक्षणं कृतवत्य: | ब्राह्मणकुटुम्बे प्रवृद्धा: क्षत्रियतरुणा: स्व-शक्त्या राज्यानि विस्तारितवन्त: | किन्तु परशुराम: पुनरपि सर्वत्र अटित्वा तेषां संहारं कृतवान् | एवम् एकविंशतिवारं भूभ्रमणं कृत्वा सर्वान् क्षत्रियान् संहृतवान् स: स्वस्य प्रतिज्ञाया: पूर्ते: अनन्तरं समग्रं भूमण्डलं कश्यपाय दानरूपेण दत्तवान् | तत: स: दक्षिणसमुद्रे स्थितं महेन्द्रपर्वतम् आश्रित्य तप: कर्तुम् उद्युक्त: जात: |
ये क्षत्रिया: बालका: ब्राह्मणपरिवारेषु आश्रमेषु च गोपिता: आसन् तेभ्य: कश्यप: परशुरामत: प्राप्तां भूमिम् अर्पितवान् | एतेन पुनरपि क्षत्रियाणां राज्यानि स्थापितानि जातानि | तेषां वंशाभिवृद्धि: अपि आरब्धा |

No comments:

Post a Comment