एक दा तस्य मनसि काचिदालोचना
संजाता । सभ्याःतस्य अविदितं किंचित् ब्रूयुः । तत् सत्यं अविदितं यदि
तेभ्यः रूप्यसहस्रकं दद्याम् इति । एवं प्रक टयामास च । बहवो विद्वांसः
आगताः । शास्त्रीयेन पाण्डित्येन व्यावहारिक न्यायैः च तं बहुधा पीडयामासुः
। दैवात् सर्वं तस्य विदितमेवासीत् । के नापि पणं न लब्धम् । तदारभ्य
विद्वांसश्च दूरीकृ ताः । राजा च पर्यतप्यत फफक थं प्रकटनं सत्यं भवति ।
स्वात्माऽपि तृप्यते । पूर्ववत् विद्वांसः समीपमुपसर्पन्ति फफ इति ।
तस्यापि प्रतिभातीत्यर्थः । एवं नकु लानपदिश्य अरसिकान् काव्यवाचकान्
उद्दिशति । ये पण्डिताः काव्यवाचनादना जीविकामार्जयितुमिच्छन्ति , ते
काव्यं पठन्तु । ये तु क वयो मुख्यतया काव्यमेव जीविताधा
रं
मन्यन्ते, तेऽपि काव्यमाश्रयन्तु नाम । ये तु अरसिकाः काव्यस्य गन्धमपि
नाघ्रातुमिच्छन्ति, तैर्हठात् यत् काव्यं पठ्यते, यदपि अस्थाने
पदविच्छेदादिना खण्ड्यत इव तत्र किं कारणम् इति । उपदेशस्तु नीचाः यदा क
मपि हिंसन्ति, तत्र प्रयोजनं न गवेषयन्ति । ते निरर्थक मेव परान् घ्नन्ति
इति । समस्यायाः उत्तरं न ज्ञातमभूत् । एवं स्थिते कश्चन बुद्धिमान्
वृद्धः राजानं उपससर्प । सः राजानं प्रत्यवोचत् भो राजन्, तव प्रकटनं मया
श्रुतम् । तव अविदितं किंचिदस्ति । दत्ते अभये विज्ञापयामी ति ।
सन्तुष्टो राजा तस्य अभयं उक्त्वा वद इत्यवोचत् । स तु वृद्धः अतीव विनयं
प्रदर्श्य फफभो राजन्, अहं समीपस्थे ग्रामे वसामि । एक दा तव पिता
कीर्तिशेषः महाराजः मामुपसृत्य रूप्यकसहस्रं याचत । एक स्मिन्नेव मासावधौ
प्रति निवर्तिष्ये इत्युक्त्वा सः मया दत्तं धनं गृहीत्वा ययौ ।
No comments:
Post a Comment